उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो धूमैर्जालविनिस्सृतैर्वलभयस्सन्दिग्धपारावताः ।
आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः सन्ध्यामङ्गलवर्तिका विभजते शुद्धान्तवृद्धो जनः॥ ४३॥
सन्ध्याकान्तिकषायितेन नभसा प्रत्यक्षसन्दर्शनै— र्लीलावेश्मनि दीपरश्मिजटिलं नीलं तमो जृम्भते।
वेल्लद्बाहुलताविलोलवलयं स्वानैरितः सूचित— व्यापाराः प्रतियोजयन्ति विविधान् वाराङ्गना वर्णकान्॥ ४४॥
(१८) निशागमान्धकारस्तमो यथा—(सेब. १०.२५)
ताव अ तमालकसणो कंचणकडअं व बहलसंझाराअं।
पडिपेल्लिऊण अ तमो हिअकद्दमसुरगइंदणिहसो व्व ठिओ॥ ४५॥
(तावच्च तमालकृष्णः काञ्चनकटकमिव बहलसन्ध्यारागम्।
प्रतिप्रेर्य एव तमः हृतकर्दमसुरगजेन्द्रनिकष इव स्थितः॥)
आसण्णम्मि पविरलं बहलं थोअंतरम्मि दूरम्मि घणं।