करभकभी पश्चान्मुक्तेत्यनादृतसौष्ठवः किमपि वलितग्रीवं पश्यन्मुहुर्मुहुराकुलः।
व्रजति यदपि स्तोकं गत्वा निवृत्य ततो ध्रुवं पुनरपि भवान्नूनं लब्धानया सह सङ्गमम्॥ ३५१॥
मानसप्रत्यक्षेणा प्रियजनावलोकः सुस्वप्नदर्शनम्। सः सम्यगवभासो, मिथ्यावभासः, संक्षिप्ताकारः, विक्षिप्ताकारः, पर्याप्तरूपोऽपर्याप्तरूपश्च। तेषु—
सुधाधाराकारा निशि निशि कुतश्चन्द्रकिरणा- कुतः कान्तानेत्रद्युति कुवलयं वा प्रतिसरः।
कुतः श्राव्या वाचः प्रतिवचनमक्लिष्टरचना प्रतिस्वप्नं चेतो विरम कुत एव प्रियतमा॥ ३५२॥
२. मिथ्यावभासो यथा—(विसा. १. २०)
क्व पेयं ज्योत्स्नाम्भो वदनबिसवल्लीसरणिभि— र्मृणालीतन्तुभ्यः सिचयरचना कुत्र भवतु।