क्व वा पारीमेयो बत वकुलदाम्नां परिमलः कथं स्वप्नः साक्षात्कुवलयदृशं ताम्॥ ३५३॥
स दृष्टः स्वप्नेऽद्य प्रणयकुपितो मां प्रतिजन— स्ततः क्षीणा रात्रिर्न च चरणयोरस्मि पतिता।
कृतं कल्याणानामनभिलषिता सावधि वयः प्रसन्नं तदवक्त्रं न कृतमिति चेतो दहति माम्॥ ३५४॥
जाने कोपपराङ््मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः।
नो यावत् परिरभ्य चाटुकशतैराश्वासयामि क्षणं भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः॥ ३५५॥
५. पर्याप्तरूपो यथा—(चौरप. २१०)
अद्यापि तां स्मरनिकेतमहापताकां लम्बालकां चिरवियोगकृशाङ्गयष्टिम्।
स्वप्ने विलोलनयनां क्षणदृष्टनष्टां विद्यां प्रमादगलितामिव संस्मरामि॥ ३५६॥