एत्ताहे संभरिऊण भणसु रे मज्झ जं णामं॥ ३०५॥
(भवतु न श्रुतमेव मया नैव त्वया सुभग किञ्चिदपि प्रवृत्तम्।
इदानीं संस्मृत्य भण रे मम यन्नाम॥)
१०. गतिनिमित्तको वृत्तानुषङ्गतो यथा—(गास. १.३२)
अह संभाविअमग्गो सुहअ तुए जेव्व णवर णिव्वूढो।
एण्हिं हिअए अण्णं अण्णं वाआएँ लोअस्स॥ ३०६॥
(अथ सम्भावितमार्गः सुभग! त्वयैव केवलं निर्व्यूढः।
इदानीं हृदये अन्यदन्यद् वाचि लोकस्य॥)
११. वर्तमानानुषङ्गतो यथा—
एत्थ अहं चेअ पिआ ण अ सा मा लज्ज भणसु वीसत्थो।