पडिभाइ जं ण तुज्झ वि मम पि किं तेण तेण णामेण॥ ३०३॥
(एवमेव मम नाम भण भण तावत् सुभग कस्मात् व्रीडितोऽसि।
प्रतिभाति यन्न तवापि ममापि किं तेन नाम्ना॥)
८. तदेव प्रतिषेधमुखेन यथा—
तुज्झ वअणइरच्छअ किं इमिणा विमक्खरेण णामेण।
जण्ण ऊणाऊण अ अह्यसु भण्णं तए णांम॥ ३०४॥
(तव वदनचिरस्थितेन किमनेन विषमाक्षरेण नाम्ना।
येन पुनःपुनश्च अस्मासु भणितं त्वया नाम॥)
९. प्रतिषेधविधिमुखेन यथा—
होउ ण सुअं चिअ मए णेअ तुमे सुहअ किं चि वि पउत्तं।