वेसो सुहअ पुरओ ण णिव्वरिज्जंति सब्भावा॥ ३०७॥
(अत्राहमेव प्रिया न च सा मा लज्जस्व भण विस्त्रब्धः।
द्वेष्यस्य सुभग पुरतो न कथ्यन्ते सद्भावाः॥)
१२. भविष्यदनुषङ्गतो यथा—(गास. ९०६वे.)
सुहअ मुहुत्तं सुप्पउ जं जं पहिभाइ तं भणिस्सिहिसी।
अज्ज ण पेच्छंति तुहं णिद्दागरुआइ अच्छीइ॥ ३०८॥
(सुभग! मुहूर्तं सुप्यतां, यद्यत् प्रतिभाति तद् भणिष्यसि।
अद्य न प्रेक्षेते तव निद्रगुरुके अक्षिणी॥)
अथ मानसुखानुभावाः। तत्र माने बहुमानादिसम्पद्योगादयं बहुमतः; जिघृक्षितोऽनुबद्धः, शिक्षितः, उपद्रुतः, विद्रुतश्चेति षोढा सम्भवति। तेषु