२. जिघृक्षितो यथा—(काव्याद. २.२४३)
मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्याक्षी पश्यति स्फुरिताधरा॥ ३११॥
भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हासितं मौनेऽभियोगः कृतः।
धैर्यं धर्तुमिह स्थिरीकृतमिदं चेतः कथाञ्चिन्मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता॥ ३१२॥
३. अनुबद्धो यथा—(गास. २.२९)
तह माणो माणतीए एमेअ दूरमणुबद्धो।
जह सविणीअ विविओ पिओ एक्कग्गामच्चिअ परमत्थो/पउत्थो॥ ३१३॥