गतोऽस्तं तिग्मांशुर्व्रज सहचरीनीडमधुना सुखं भ्रातः सुप्यास्सुजनसदृशं वायसकृतम्।
मयि स्नेहाद् बाष्पस्थगितजडदृष्टौ सकरुणं रुदत्या यो यातस्त्वपि स विलपत्येष्यति कथम्॥ ३४८॥
जाताभीमरयास्तटद्रुमरजःकूलंकषा निम्नगा वान्त्युत्फुल्लकदम्बसौरभधरा मेघङ्करा वायवः।
एतच्चाभिनवो नवाम्बुगुरुभिर्नीतं घनैश्श्यामता— मद्याप्येष विरौति किं सखि!— वृथा वीतत्रपो वायसः॥ ३४९॥
तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते।
अवतर कलहंसि! वापिकां पुनरपि यास्यसि पङ्कजालयम्॥ ३५०॥