आयान्ति तेषु भवनानि पुनः कृतार्थाः दत्तं द्विजातिषु पुरा विधिवद् यथार्थाः॥ ३४४॥
जातिमित्रेऽथवा षष्ठे राहौ केन्द्रे च वार्द्युतौ।
प्रोषितागमनं विद्यात् तृतीये ज्ञेऽसितेऽपि वा॥ ३४५॥
दत्तं पिण्डं नयनसलिलक्षालनाऽऽधौतगण्डं द्वारोपान्ते गतदयितया सङ्गमान्वेषणाय।
वक्रग्रीवश्चलतशिराः पार्श्वसञ्चारिनेत्रः पाशाशङ्कीं गलितवलयं क्रान्तमश्नाति काकः॥ ३४६॥
तैलाक्तानलकान् कपोलपतितान् सन्धाय कर्णान्तरे वस्त्रान्तेन विलम्बिना सरभसं प्रच्छाद्य पीनौ स्तनौ।
बाला वायसमेवमाह बहुशो दास्यामि ते यत् प्रियं चूतात् केसरपादपं व्रज शनैर्यद्येति मे वल्लभः॥ ३४७॥