अण्णपहिअम्मि एंते सो त्ति गवक्खओ तं पुलोअंती।
मुणिअवअणा गअवई सहीओ रुइरी रुआवेइ॥ ३३९॥
(अन्यपथिके आयाति स इति गवाक्षतः तं प्रलोकयन्ती।
ज्ञातवदना गतपतिका सख्यः रोदनशीला रोदयत॥)
आलम्ब्याङ्गवापिकापरिसरे स्वेच्छानतां शाखिकां केयूरीभवदल्पशेषवलया बाला समस्तं दिनम्।
सा दैवोपहतस्य मूढमनसो भग्नावधेरद्य मे पन्थानं विधृताश्रुणा वदनकेनालोक्य किं वक्ष्यति॥ ३४०॥
४. उपशल्यकाद् यथा—(अमरु. ७६)
आदृष्टिप्रसरात् प्रियस्य पदवीमालोक्य निर्विण्णया विश्रान्तेषु पथिष्वहः परिणतौ ध्वान्ते समुत्सर्पति।
दत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियाऽस्मिन् क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम्॥ ३४१॥