सूर्यं जलाञ्जलिं प्रियतम—वहनैककृत जीवितं सा॥)
वत्से माधवि! मुग्धिकासि बलवद् वह्नयौकसौ देवताः पान्तु त्वामयमस्तमञ्चति रविर्वीतोऽवधिस्ते पितुः।
शान्तं पापममङ्गलं परमतः श्रव्या न कल्याणिनी कव्यं नव्यमधुव्रताय१ तु मधून्युद्दिश्य नो दास्यसि॥ ३३७॥
दयितपथावलोको मार्गोदीक्षणम्। यथा सः गृहात्, गवाक्षतः, अङ्गणतः, उपशल्यकात्, मार्गवृक्षत इति। तेषु—
दारे हत्थक्खित्ताइ आलणीलंति गलिअवाहाइ।
पिअदंसणूसूआओ मुहाण पहिआणजाआओ॥ ३३८॥