१०. अचेतनविषयः प्रत्यक्षविषयो यथा—(गास. १.५०)
सुहउच्छअं जणं दुल्लहं पि दूराहि अम्ह आणेंत।
उअआरअ जर जीअं पि णेंत ण कआवराहो सि॥ २९४॥
(सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन्।
उपकारक ज्वर जीवमपि नयन् न कृतापराधोऽसि॥)
११. स एवाप्रत्यक्षविषयो यथा—(गास. १.२४)
पिअविरहो अप्पिअदंसणं अ गुरुआइं दो वि दुक्खाइ।
जिस्सा तुमं कारिज्जसि तीए णमो आहिआईए॥ २९५॥
(प्रियविरहोऽप्रियदर्शनं च गुरुके द्वे अपि दुःखे।
यया त्वं कार्यसे तस्ये नम आभिजात्यै॥)