८. स एव सखायाभिमुख्ये विशेषनिष्ठो यथा—(गास. २.३१)
वाहरउ मं सहीओ तिस्सा गोत्तेण किंत्थ भणिएण।
थिरपेम्मा होउ जहिं तहिं मा किं पि णं भणह॥ २९२॥
(व्याहरतु मां सख्यस्तस्या गोत्रेण किमत्र भणितेन।
स्थिरं प्रेम भवतु यत्र तत्रापि मा किमप्येनं भणत॥)
९. गोत्रस्खलनतः सपत्न्यनुसन्धाने कल्पनानिष्ठो यथा—(गास. ४.९०)
पाअपडिअं अहव्वे किं दाणिं ण उट्ठवेसि भत्तारं।
एअं चिअ अवसाणं दूरं पि गअस्स पेम्मस्स॥ २९६॥
(पादपतितं अभव्ये किमिदानी नोत्थापयसि भर्तारम्।
एतदेवावसानं दूरमपि गतस्य प्रेम्णः॥)