१२. अनिर्धारितविषयो यथा—(गास. ३.६५)
अणुवत्तणां कुणंतो वेसे वि जणे अ—हिण्ण—मुहराओ।
अप्पव्वसो वि सुअणो परव्वसो आहिजाईए॥ २९६॥
(अनुवर्तनां कुर्वन् द्वेष्येऽपि जने अभित्रमुखरागः।
आत्मवशोऽपि सुजनः परवश आभिजात्याः॥)
अथ मानमोट्टायितानि। विलास एव काक्वादिनातिवक्रो मानमोट्टायितम्। सोऽपि द्विधा अगोत्रस्खलनविषयो गोत्रस्खलनविषयश्च। तयोराद्यः प्राग्वदेव शुद्धो मिश्रश्च। द्वितीयस्त्वभिहितनिमित्तो गतिनिमित्तश्च। तत्र शुद्धमिश्रौ पूर्ववदेव त्रिधा। अभिहितनिमित्तस्तु त्रिधा—विधिमुखेन, प्रतिषेधमुखेन प्रतिषेधविधिमुशेन च। गतिनिमित्तोऽपि त्रिधैव वृत्तानुषङ्गतः, वर्तमानानुषङ्गतः, भविष्यदनुषङ्गतश्च। तेषु—
१. वाक्यप्रवृत्तिजं शुद्धं यथा—(गास. ७५०वे.)
सद्धा मे तुज्झ पिअत्तणस्स कह तं ति णेअ आणामो।
दे पसिअ तुमं चिअ सिक्खवेसु जह ते पिआ होमि॥ २९७॥