(श्रद्धा मे तव प्रियत्वस्य कथं तदित्येतन्न जानामि।
प्रार्थये तावत् प्रसीद त्वमेव शिक्षय यथास्य प्रिया भवामि॥)
२. तदेव मनःप्रवृत्तिजं यथा—
एत्थच्चिअ वससि तुमं साहसु मा कुणसु सुहअ णीसासं।
एसच्चिअ होइ गई परिणइपरुसाणं पेम्माणं॥ २९८॥
(अत्रैव वसासि त्वं मा कुरु सुभग! निःश्वासम्।
एषैव भवति गतिः परिणतिपरुषाणां प्रेम्णाम्॥)
उण्णमसु सुहअ एअं कहेउ पडिसिद्ध—दड्ढहिअअस्स।
पंसुलिक अणिम्मएण किं पाअपडणेण॥ २९९॥