हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा । मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् । कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः । वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः । वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ॥
Metre: गीति (१२, १८, १२, १८)
विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ । यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥
Metre: उद्गीति (१२, १५, १२, १८)
अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः । तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥
Metre: उपजातिः
अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् । वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः । तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥
Metre: उपजातिः
विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः । द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ॥
Metre: गीति (१२, १८, १२, १८)