क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः । प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः । शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
जगदन्तकालसमवेतविषदविषमेरितारवम् । धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥
Metre: आर्या (१२, १८, १२, १५)
सहसा ससभ्रमविलोलसकलजनतासमाकुलम् । स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥
Metre: उपजातिः
दधतो भयानकतरत्वमुपगतवतः समानताम् । धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् । वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥
Metre: उद्गीति (१२, १५, १२, १८)
रणसंमदोदयविकासिबलकलकलाकुलीकृते । शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥
Metre: आर्या (१२, १८, १२, १५)
परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः । तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः । पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥
Metre: गीति (१२, १८, १२, १८)
दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः । चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः ॥
Metre: गीति (१२, १८, १२, १८)