अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत । ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ॥
Metre: उद्गीति (१२, १५, १२, १८)
कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् । क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥
Metre: उद्गीति (१२, १५, १२, १८)
प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् । जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् । तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
कुपितेषु राजषु तथापि रथचरणपाणिपूजया । चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रताम् । व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥
Metre: उपजातिः
विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता । हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् । मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलम् ॥
Metre: गीति (१२, १८, १२, १८)
रमसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः । सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥
Metre: उपजातिः
स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः । धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]