शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 31 to 40 of 96 verses
Verse 31
त्वमशक्नुवन्न शुभकर्मनिरतः परिपाकदारुणम् । जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः ॥
Metre: उपजातिः

Verse 32
सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव । त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा ॥
Metre: उद्गीति (१२, १५, १२, १८)

Verse 33
त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः । हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 34
मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः । अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 35
अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु । स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥
Metre: उद्गीति (१२, १५, १२, १८)

Verse 36
यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति । स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥
Metre: उद्गीति (१२, १५, १२, १८)

Verse 37
शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् । कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 38
अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् । स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥
Metre: उद्गीति (१२, १५, १२, १८)

Verse 39
इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा । सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 40
कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः । सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]