शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 31 to 40 of 88 verses
Verse 31
प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः । उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ॥
Metre: रथोद्धता

Verse 32
नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनम् । अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः ॥
Metre: उपजातिः

Verse 33
दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् । दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ॥
Metre: रथोद्धता

Verse 34
वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् । भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपोऽवपत् ॥
Metre: रथोद्धता

Verse 35
किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत । राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् ॥
Metre: रथोद्धता

Verse 36
स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः । आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः ॥
Metre: रथोद्धता

Verse 37
शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः । पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥
Metre: रथोद्धता

Verse 38
तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् । आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥
Metre: रथोद्धता

Verse 39
मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् । आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥
Metre: रथोद्धता

Verse 40
एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः । त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥
Metre: रथोद्धता