प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः । स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥
Metre: रथोद्धता
यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि । सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ ॥
Metre: रथोद्धता
आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि । वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे ॥
Metre: रथोद्धता
आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः । तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥
Metre: रथोद्धता
नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् । नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ॥
Metre: रथोद्धता
निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् । वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥
Metre: रथोद्धता
प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः । दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥
Metre: रथोद्धता
दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति । प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ॥
Metre: रथोद्धता
नानवाप्तवसुनार्ऽथकाम्यता नाचिकित्सितगदेन रोगिणा । इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥
Metre: रथोद्धता
स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः । भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥
Metre: रथोद्धता