शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel

Showing 41 to 50 of 96 verses
Verse 41
न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः । शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 42
विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः । तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 43
स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः । स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 44
नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः । स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥
Metre: उपजातिः

Verse 45
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः । प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥
Metre: उपजातिः

Verse 46
विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् । यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 47
इतिभीष्मभाषितवचोर्ऽथमधिगतवतामिव क्षणात् । क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 48
शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Verse 49
प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् । प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्द्रुमः ॥
Metre: उपजातिः

Verse 50
अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् । कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]

Showing 41 to 50 of 96 verses