अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् । नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् । कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥
Metre: उद्गीति (१२, १५, १२, १८)
असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते । दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥
Metre: उद्गीति (१२, १५, १२, १८)
मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः । सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ॥
Metre: गीति (१२, १८, १२, १८)
छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः । प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् । चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः । ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यत् । व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते । भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणम् । क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]