इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् । याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ॥
Metre: उपजातिः
प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी । भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः । वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ॥
Metre: आर्या (१२, १८, १२, १५)
यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि । ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥
Metre: आर्या (१२, १८, १२, १५)
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे । निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥
Metre: उद्गीति (१२, १५, १२, १८)
तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते । भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
यदि वार्चनीयतम एष किमपि भवतां पृथासुताः । शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अथवा न धर्ममसुबोधसमयमवयात बालिशाः । खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥
Metre: गीति (१२, १८, १२, १८)
स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः । तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]