शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 51 to 60 of 88 verses
Verse 51
रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् । अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥
Metre: रथोद्धता

Verse 52
एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः । यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥
Metre: रथोद्धता

Verse 53
इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना । अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ॥
Metre: रथोद्धता

Verse 54
आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु । यत्तथापि न गुरून्नपृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥
Metre: रथोद्धता

Verse 55
स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् । अर्घभाज इति कीर्तयन्ति षट्ते च ते युगपदागताः सदः ॥
Metre: रथोद्धता

Verse 56
शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः । त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥
Metre: उपजातिः

Verse 57
आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी । एक एव गुणवत्तमोऽथवापूज्य इत्ययमपीष्यते विधिः ॥
Metre: रथोद्धता

Verse 58
अत्र चैष सकलेऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति । भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ॥
Metre: रथोद्धता

Verse 59
मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् । अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥
Metre: रथोद्धता

Verse 60
ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् । आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ॥
Metre: रथोद्धता