शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 61 to 70 of 88 verses
Verse 61
पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् । संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ॥
Metre: रथोद्धता

Verse 62
सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः । क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ॥
Metre: रथोद्धता

Verse 63
भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः । यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥
Metre: रथोद्धता

Verse 64
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा । दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥
Metre: रथोद्धता

Verse 65
आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने । बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥
Metre: रथोद्धता

Verse 66
केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि । धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥
Metre: रथोद्धता

Verse 67
पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ । तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥
Metre: रथोद्धता

Verse 68
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥
Metre: रथोद्धता

Verse 69
श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् । श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥
Metre: रथोद्धता

Verse 70
सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् । जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥
Metre: रथोद्धता