क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम । प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता । न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः । अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः । तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् । भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि । अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् । ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः । क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् । न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः । द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषाम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४