शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel

Showing 61 to 70 of 85 verses
Verse 61
प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः । दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 62
मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः । नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 63
समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च । धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 64
तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः । कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 65
दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् । भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 66
अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन । यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 67
चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः । अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 68
न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः । चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ॥
Metre: गीति (१२, १८, १२, १८)

Verse 69
स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् । बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 70
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया । युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४