दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ । उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः । भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः । प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः । तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः । तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः । तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः । विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि संप्रति । प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः । भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव । नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥