शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 1 to 10 of 69 verses
Verse 1
इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि । प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥
Metre: रुचिरा

Verse 2
सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥
Metre: रुचिरा

Verse 3
अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि । समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥
Metre: रुचिरा

Verse 4
अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः । रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ॥
Metre: रुचिरा

Verse 5
यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः । बृहच्छिलातलकठिनांसघट्टितं ततोऽभवद्भ्रमितामिवाखिलं सदः ॥
Metre: रुचिरा

Verse 6
प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः । युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् ॥
Metre: रुचिरा

Verse 7
प्रजापतिक्रतुनिधनार्थमुत्थितंव्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् । समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥
Metre: रुचिरा

Verse 8
परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् । करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः ॥
Metre: रुचिरा

Verse 9
निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदं । अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धुमाहुकिः ॥
Metre: रुचिरा

Verse 10
दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्याया । ध्रुवं पुरः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा ॥
Metre: रुचिरा

Showing 1 to 10 of 69 verses