शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 11 to 20 of 69 verses
Verse 11
विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना । परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥
Metre: रुचिरा

Verse 12
विलङ्घितस्थितिमभिवीक्ष्य रुक्षया रिपोर्गिरागुरुमपि गान्दिनीसुतम् । जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ॥
Metre: रुचिरा

Verse 13
विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवावरवः । क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः ॥
Metre: रुचिरा

Verse 14
सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः । स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः ॥
Metre: रुचिरा

Verse 15
ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः । रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥
Metre: रुचिरा

Verse 16
प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः । अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥
Metre: रुचिरा

Verse 17
दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः । विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ॥
Metre: रुचिरा

Verse 18
समाकुले सदसि तथापि विक्रियां मनोऽगमन्न मुरभिदः परोदितैः । घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ॥
Metre: रुचिरा

Verse 19
परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति । निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ॥
Metre: रुचिरा

Verse 20
निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् । मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥
Metre: रुचिरा

Showing 11 to 20 of 69 verses