दयिताय सासवमुदस्तमपतदवसादिनः करात् । कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥
Metre: उपजातिः
भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः । वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
सुदृशः समीकगमनाय युवभिरथ संबभाषिरे । शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥
Metre: उपजातिः
विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः । पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥
Metre: उपजातिः
न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि । यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥
Metre: उद्गीति (१२, १५, १२, १८)
प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् । नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥
Metre: उपजातिः
व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् । धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना ॥
Metre: गीति (१२, १८, १२, १८)
शठ नाकलोकललनाभिरविरतरतं रिरंससे । तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥
Metre: उपजातिः
ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः । स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः । गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]