अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया । हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥
Metre: अनुष्टुप्
विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः । तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥
Metre: अनुष्टुप्
असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् । रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥
Metre: अनुष्टुप्
चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् । पयोदजालमिव तद्वीराशंसनमाबभौ ॥
Metre: अनुष्टुप्
बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके । अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥
Metre: अनुष्टुप्
कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् । क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥
Metre: अनुष्टुप्
युद्धमित्थं विधूतान्यमानवानभियो गतः । चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥
Metre: अनुष्टुप्
अथ वक्षोमणिच्छायाच्छुरितापीतवाससा । स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥
Metre: अनुष्टुप्
नीलेनानालनलिननिलीनोल्ललनालिना । ललनालालनेनालं लीलालोलेन लालिना ॥
Metre: अनुष्टुप्
अपूर्वयेव तत्कालसमागमसकामया । दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥
Metre: अनुष्टुप्