शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1501 to 1510 of 1644 verses
Verse 56
रणे रभसनिर्भिन्नद्विपपाटविकासिनि । न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥
Metre: अनुष्टुप्

Verse 57
यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः । अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥
Metre: अनुष्टुप्

Verse 58
अयशोभिदुरालोके कोपधामरणादृते । अयशोभिदुरा लोके कोपधा मरणादृते ॥
Metre: अनुष्टुप्

Verse 59
स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी । अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥
Metre: अनुष्टुप्

Verse 60
अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः । आप दिव्या पृतनया विस्मयं जनता यथा ॥
Metre: अनुष्टुप्

Verse 61
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव । कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥
Metre: अनुष्टुप्

Verse 62
वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः । वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥
Metre: अनुष्टुप्

Verse 63
पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः । कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥
Metre: अनुष्टुप्

Verse 64
रक्तश्रुतिं जपासूनसमरागामिषुव्यधात् । कश्चित्पुरः सपत्नेषु समरागमिषुव्यधात् ॥
Metre: अनुष्टुप्

Verse 65
रयेण रणकाम्यन्तौ दूरादुपगतविभौ । गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥
Metre: अनुष्टुप्

Showing 1501 to 1510 of 1644 verses