इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् । भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥
Metre: मालिनी
शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् । मर्मातिगैरनृजुभिर्नितरामशुद्धैर्वाक्सायकैरथ तुतोद तदा विपक्षः ॥
Metre: वसन्ततिलका
राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गनव्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा । तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानलज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥
Metre: शार्दूलविक्रीडितम्
श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षैर्वपुष्टचैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय । प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्नरेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥
Metre: मेघविस्फूर्जिता