दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् । रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः । जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गैः । भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते । अयुगाचिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन । वियतायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः । द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् । परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः । स्वमसारतया मषीभवन्तः पुनराकारमवापुराम्बुवाहाः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः । क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
निखिलामिति कुर्वतश्चिरायद्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करमस्मरन्मुरारिः ॥