शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel

Showing 1611 to 1620 of 1644 verses
Verse 46
शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः । यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 47
पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि । दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 48
कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः । व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 49
परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः । दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 50
बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रमन्तः । दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 51
प्रसृतं रभसादयोभिनीला प्रतिपदं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥

Verse 52
अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन । निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 53
द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः । क्षणमैक्षिषतोच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 54
उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः । गगनार्णवमन्तरासुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 55
पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः । सुतरामभवदद्दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥