श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥
Metre: वंशस्थम्
गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥
Metre: वंशस्थम्
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥
Metre: वंशस्थम्
नवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरम् । क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥
Metre: वंशस्थम्
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् । विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥
Metre: वंशस्थम्
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति । सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥
Metre: वंशस्थम्
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः । कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥
Metre: वंशस्थम्
निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना । चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥
Metre: वंशस्थम्
अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया । पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥
Metre: वंशस्थम्
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः । स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥
Metre: वंशस्थम्