शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1481 to 1490 of 1644 verses
Verse 36
करेणुः प्रम्थितोऽनेको रेणुर्घण्टाः सहस्रशः । करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥
Metre: अनुष्टुप्

Verse 37
धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः । सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥
Metre: अनुष्टुप्

Verse 38
न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु । रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥
Metre: अनुष्टुप्

Verse 39
बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः । गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥
Metre: अनुष्टुप्

Verse 40
नानाजाववजानाना सा जनौघघनौजसा । परानिहऽहानिराप तान्वियाततयान्विता ॥
Metre: अनुष्टुप्

Verse 41
विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः । श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलम् ॥
Metre: अनुष्टुप्

Verse 42
संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया । ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ॥
Metre: अनुष्टुप्

Verse 43
विस्तीर्णमायामवती लोललोकनिरन्तरा । नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥
Metre: अनुष्टुप्

Verse 44
वारणागगभीरा सा साराभीगगणारवा । कारितारिवधा सेना नासेधा वारितारिका ॥
Metre: अनुष्टुप्

Verse 45
अधिनागं प्रजविनो विकसत्पिच्छचारवः । पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥
Metre: अनुष्टुप्

Showing 1481 to 1490 of 1644 verses