शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1461 to 1470 of 1644 verses
Verse 16
ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः । कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम् ॥
Metre: अनुष्टुप्

Verse 17
दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः । न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥
Metre: अनुष्टुप्

Verse 18
निपीड्य तरसा तेन मुक्ताः काममनास्थया । उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥
Metre: अनुष्टुप्

Verse 19
तस्यावदानैः समरे सहसा रोमहर्षिभिः । सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥
Metre: अनुष्टुप्

Verse 20
सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः । भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥
Metre: अनुष्टुप्

Verse 21
सोढुं तस्य द्विषो नालमवयोधरवा रणम् । ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥
Metre: अनुष्टुप्

Verse 22
केशप्रचुरलोकस्य पर्यस्कारि विकासिना । शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥
Metre: अनुष्टुप्

Verse 23
सादरं युद्धमानापि तेनान्यनरसादरम् । सा दरं पृतना निन्ये हीयमाना रसादरम् ॥
Metre: अनुष्टुप्

Verse 24
इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजम् । क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥
Metre: अनुष्टुप्

Verse 25
अहितानभि वाहिन्या स मानी चतुरङ्गया । चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥
Metre: अनुष्टुप्

Showing 1461 to 1470 of 1644 verses