भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे । भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥
Metre: अनुष्टुप्
निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः । युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ॥
Metre: अनुष्टुप्
निपीडनादिव मिथो दानतोयनारतम् । वपुषामदयापातादिभानामभितोऽगलत् ॥
Metre: अनुष्टुप्
रणाङ्गणं सर इव प्लावितं मदवारिभिः । गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥
Metre: अनुष्टुप्
शरक्षते गजे भृङ्गैः सविषादिविषादिनि । रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥
Metre: अनुष्टुप्
अन्तकस्य पृथौ तत्र शयनीय इवाहवे । दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥
Metre: अनुष्टुप्
अभीकमतिकेनेद्धे भीतानन्दस्यनाशने । कनत्सकामसेनाके मन्दकामकमस्यति ॥
Metre: अनुष्टुप्
दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् । हताः परैरभिमुखाः सुरभूयमुपाययुः ॥
Metre: अनुष्टुप्
येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः । समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥
Metre: अनुष्टुप्
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् । पाणिनीयमिवावलोकि धीरैस्तत्समराजिरम् ॥
Metre: अनुष्टुप्