शरवर्षी महानादः स्फुरत्कार्मुककेतनः । नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥
Metre: अनुष्टुप्
न केवलं जनैस्तस्य लघुसंधायिनो धनुः । मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥
Metre: अनुष्टुप्
लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः । कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥
Metre: अनुष्टुप्
अक्षितारासु विव्याध द्विषतः स तनुत्रिणः । दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥
Metre: अनुष्टुप्
वररोऽविवरो वैरिविवारी वारिरारवः । विववार वरो वैरं वीरो रविरिवौर्वरः ॥
Metre: अनुष्टुप्
मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां । तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥
Metre: अनुष्टुप्
राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः । रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥
Metre: अनुष्टुप्
उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः । पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥
Metre: अनुष्टुप्
क्रूरारिकारि कीरेककारकः कारिकाकरः । कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ॥
Metre: अनुष्टुप्
विधातुमवतीर्णोऽपि लघिमानमसौ भुवः । अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥
Metre: अनुष्टुप्