शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1561 to 1570 of 1644 verses
Verse 116
सदामदबलप्रायः समुद्धृरसो बभौ । प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ॥
Metre: अनुष्टुप्

Verse 117
द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः । पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥
Metre: अनुष्टुप्

Verse 118
सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु । महो दधेऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तम् ॥
Metre: उपेन्द्रवज्रा

Verse 119
इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेरेत्याधोमुख्यं प्रविशन्भूमिमाशु । शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥
Metre: वैश्वदेवी

Verse 120
सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा । मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥
Metre: शार्दूलविक्रीडितम्

Verse 1
मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः । समिताविति विक्रमानमृष्यन्गतभीराह्वतचेदिराण्मुरारिम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 2
शितचक्रनिपातसंप्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युम् । अभिशौरि रथोऽथनोदिताश्वः प्रययौ सारथिरूपया नियत्या ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 3
अभिचैद्यमगाद्रथोऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः । गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 4
स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः । विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 5
सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य । प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयाम्बभूवे ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Showing 1561 to 1570 of 1644 verses