ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः । रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥
Metre: रुचिरा
प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः । अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥
Metre: रुचिरा
दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः । विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ॥
Metre: रुचिरा
समाकुले सदसि तथापि विक्रियां मनोऽगमन्न मुरभिदः परोदितैः । घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ॥
Metre: रुचिरा
परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति । निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ॥
Metre: रुचिरा
निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् । मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥
Metre: रुचिरा
मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः । अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥
Metre: रुचिरा
दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति । महीभुजां महिमभृतां न संममुर्मुदोऽन्तरावपुषि बहिश्च कञ्चुकाः ॥
Metre: रुचिरा
संकल्पं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः । त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् ॥
Metre: रुचिरा
युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया । अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ॥
Metre: रुचिरा