सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः । रणैषिणां पुलकभृतोऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ॥
Metre: रुचिरा
मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः । सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥
Metre: रुचिरा
अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि । मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥
Metre: रुचिरा
उपेत्यच स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः । प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥
Metre: रुचिरा
गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया । प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥
Metre: रुचिरा
निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः । विकौतुकः प्रकृतमहाप्लवेऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥
Metre: रुचिरा
बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे । असंभवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥
Metre: रुचिरा
अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः । विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ॥
Metre: रुचिरा
जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः । अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ॥
Metre: रुचिरा
अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः । अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥
Metre: रुचिरा