शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1331 to 1340 of 1644 verses
Verse 35
प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः । गजाः सकृत्करतललोलनालिकाहता मुहुः प्रणदितघण्डमाययुः ॥
Metre: रुचिरा

Verse 36
सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः । व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ॥
Metre: रुचिरा

Verse 37
चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया । मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥
Metre: रुचिरा

Verse 38
असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया । अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥
Metre: रुचिरा

Verse 39
उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः । यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ॥
Metre: रुचिरा

Verse 40
न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि । पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ॥
Metre: रुचिरा

Verse 41
यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् । पुरः पतत्परबलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ॥
Metre: रुचिरा

Verse 42
मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः । यथा पुरःसमरसमुद्यतद्विषद्वलानकध्वनिरुदकर्षयन्मनः ॥
Metre: रुचिरा

Verse 43
यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतः सरः । तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥
Metre: रुचिरा

Verse 44
प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता । व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ॥
Metre: रुचिरा

Showing 1331 to 1340 of 1644 verses