शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1291 to 1300 of 1644 verses
Verse 80
परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् । न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 81
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः । तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ॥
Metre: उपजातिः

Verse 82
भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि । कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥
Metre: प्रहर्षिणी

Verse 83
लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् । लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥
Metre: शालिनी

Verse 84
विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकैरच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः । प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषामित्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि ॥
Metre: शार्दूलविक्रीडितम्

Verse 85
विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् । रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यतेऽसौ ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 1
इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि । प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥
Metre: रुचिरा

Verse 2
सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥
Metre: रुचिरा

Verse 3
अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि । समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥
Metre: रुचिरा

Verse 4
अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः । रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ॥
Metre: रुचिरा

Showing 1291 to 1300 of 1644 verses