शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel

Showing 1281 to 1290 of 1644 verses
Verse 70
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया । युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 71
भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् । रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥

Verse 72
नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः । गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 73
अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः । खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 74
घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन । दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 75
इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः । क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 76
अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः । अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 77
कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः । नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 78
इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः । स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Verse 79
महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि । अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४

Showing 1281 to 1290 of 1644 verses