भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 791 to 800 of 841 verses
प्रतीतिभेदाद् भेदोऽस्तु देशभेदस्तु नेष्यते।

तेनावकल्पते वृत्तिस्समवायस्स तूच्यते॥ १४६॥

अवयवायविनोर्गुणगुणिनोश्‍चेयमेव वृत्तिः। अर्थान्तरत्वं चैतयोर्जातितुल्यन्यायतया सिद्धमेव। देशभेदश्‍च तयोर्नास्तीति विस्पष्टमयुतसिद्धत्वम्। यदप्युच्यते—

नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता॥ १४७॥

इति तदपि परिहृतमाचार्यैः 'जातं सम्बद्धं चेत्येकः काल' इति वदद्भिः।

या चेह वृत्तिः स्रक्‌सूत्रभूतकण्ठगुणादिषु।

जात्यादीनामनङ्गत्वात् ताभ्यां वृत्तिर्विलक्षणा॥ १४८॥

तस्माद्‍वृत्त्यनुपपत्तेरित्यदूषणम्।

यदपि सर्वसर्वगतत्वं पिण्डसर्वगत्वं च विकल्प्य दूषितं तदपि यत्किञ्चित्; यथाप्रतीति तदभ्युपगमात्।

सर्वसर्वगता जातिरिति तावदुपेयते।

Showing 791 to 800 of 841 verses