सर्वत्र ग्रहणं तस्या व्यञ्जकव्यक्तिसन्निधेः॥ १४९॥
व्यक्तिर्व्यञ्जकतामेति जातेर्दृष्टैव नान्यथा।
दृष्टिर्यत्र यदा त्वस्यास्तदा तत्रैव तन्मतिः॥ १५०॥
सर्वत्र विद्यते जातिर्न तु सर्वत्र दृश्यते।
तदभिव्यञ्जिका यत्र व्यक्तिस्तत्रैव दृश्यते॥ १५१॥
व्यक्तेरन्यत्र सत्त्वेऽस्याः किं प्रमाणं तदुच्यते।
इहाप्यानीयमानायां गवि गोत्वोपलम्भनम्॥ १५२॥
गोपिण्डेन सहैतस्या न चागमनसम्भवः।
देहेनेवात्मनस्तस्मादिहाप्यस्तित्वमिष्यताम्॥ १५३॥
अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम्।